← सूक्तं ६.०६३ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६४
ऋषिः - अथर्वा।
सूक्तं ६.०६५ →
दे. सांमनस्यम्, १ विश्वे देवाः। अनुष्टुप्, ( २ त्रिष्टुप्)।

सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥१॥
समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।
समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनः यथा वः सुसहासति ॥३॥