← सूक्तं ६.०७० अथर्ववेदः - काण्डं ६
सूक्तं ६.०७१
ऋषिः - ब्रह्मा
सूक्तं ६.०७२ →
दे. अग्निः, ३ वैश्वानरः, देवाः। जगती, ३ त्रिष्टुप्

अन्नम्

यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।
यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृणोतु ॥१॥
यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः ।
यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥२॥
यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि ।
वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥३॥