← सूक्तं ६.०७४ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७५
ऋषिः - कबन्धः।
सूक्तं ६.०७६ →
दे. इन्द्रः। अनुष्टुप्, ३ षट्पदा जगती।

सपत्नक्षयणम्

निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।
नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥
परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।
यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥
एतु तिस्रः परावत एतु पञ्च जनामति ।
एतु तिस्रोऽति रोचना यतो न पुनरायति ।
शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥


सम्पाद्यताम्