← सूक्तं ६.०७३ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७४ ऋषिः - अथर्वा। |
सूक्तं ६.०७५ → |
दे. सांमनस्यम्, नाना देवताः, त्रिणामा। अनुष्टुप्, ३ त्रिष्टुप्।
सांमनस्यम् |
सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।
सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।
अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥