← सूक्तं ६.०७७ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७८ ऋषिः - अथर्वा। |
सूक्तं ६.०७९ → |
दे. १-२ चन्द्रमाः, ३ त्वष्टा। अनुष्टुप्। |
तेन भूतेन हविषायमा प्यायतां पुनः ।
जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।
त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥