← सूक्तं ६.०७८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०७९
ऋषिः - अथर्वा।
सूक्तं ६.०८० →
दे. संस्फानम्। गायत्री, ३ त्रिपदा प्राजापत्या गायत्री।

अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।
असमातिं गृहेषु नः ॥१॥
त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।
आ पुष्टमेत्वा वसु ॥२॥
देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम ॥३॥