← सूक्तं ६.०८५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८६
ऋषिः - अथर्वा
सूक्तं ६.०८७ →
दे. एकवृषः.। अनुष्टुप्।

वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥
समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥
सम्राडस्यसुराणां ककुन् मनुष्याणाम् ।
देवानामर्धभागसि त्वमेकवृषो भव ॥३॥