← सूक्तं ६.०८६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८७
ऋषिः - अथर्वा
सूक्तं ६.०८८ →
दे. ध्रुवः.। अनुष्टुप्।

आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।
विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।
इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥