← सूक्तं ६.०९८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०९९
ऋषिः - गरुत्मान्।
सूक्तं ६.१०० →
दे. इन्द्रः। त्रिष्टुप्, २ बृहतीगर्भास्तारपङ्क्तिः।

अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे ।
ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥
यो अद्य सेन्यो वधो जिघांसन् न उदीरते ।
इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥
परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।
देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥