← सूक्तं ६.१०५ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०६
प्रमोचनः
सूक्तं ६.१०७ →
दे. दूर्वाशाला। अनुष्टुप्

दूर्वाशाला

आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥