← सूक्तं ६.१०४ अथर्ववेदः - काण्डं ६
सूक्तं ६.१०५
ऋषिः -उन्मोचनः।
सूक्तं ६.१०६ →
दे. कासा। अनुष्टुप्।

यथा मनो मनस्केतैः परापतत्याशुमत्।
एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
यथा बाणः सुसंशितः परापतत्याशुमत्।
एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।
एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥