← सूक्तं ६.११३ अथर्ववेदः - काण्डं ६
सूक्तं ६.११४
ऋषिः - ब्रह्मा
सूक्तं ६.११५ →
दे. विश्वे देवाः। अनुष्टुप्।

यद्देवा देवहेडनं देवासश्चकृम वयम् ।
आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥
ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥
मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।
अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥