← सूक्तं ६.११४ | अथर्ववेदः - काण्डं ६ सूक्तं ६.११५ ऋषिः - ब्रह्मा |
सूक्तं ६.११६ → |
दे. विश्वे देवाः। अनुष्टुप्। |
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।
यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।
भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।
पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥