← सूक्तं ६.११६ अथर्ववेदः - काण्डं ६
सूक्तं ६.११७
कौशिकः।
सूक्तं ६.११८ →
दे. अग्निः। त्रिष्टुप् ।

मधुमदन्नम्

अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।
इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।
अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥