← सूक्तं ६.११७ अथर्ववेदः - काण्डं ६
सूक्तं ६.११८
कौशिकः।
सूक्तं ६.११९ →
दे. अग्निः। त्रिष्टुप् ।

मधुमदन्नम्

यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः ।
उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥
उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्।
ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥
यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः ।
ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥