← सूक्तं ६.११८ | अथर्ववेदः - काण्डं ६ सूक्तं ६.११९ कौशिकः। |
सूक्तं ६.१२० → |
दे. वैश्वानरोऽग्निः। त्रिष्टुप्। |
6.119
यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।
वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।
स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।
अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥