← सूक्तं ६.१२२ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२३
भृगुः।
सूक्तं ६.१२४ →
दे. विश्वे देवाः। त्रिष्टुप्, ३ द्विपदा साम्न्यनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप्।

एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।
अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।
अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
देवाः पितरः पितरो देवाः ।
यो अस्मि सो अस्मि ॥३॥
स पचामि स ददामि ।
स यजे स दत्तान् मा यूषम् ॥४॥
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥