← सूक्तं ६.१२३ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२४
अथर्वा।
सूक्तं ६.१२५ →
दे. दिव्या आपः। त्रिष्टुप्।

दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।
समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।
यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निर्ऋतिं पराचैः ॥२॥
अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।
सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निर्ऋतिर्मो अरातिः ॥३॥