← सूक्तं ६.१२७ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२८
ऋषिः - अङ्गिराः।
सूक्तं ६.१२९ →
दे. सोमः, शकधूमः। अनुष्टुप्।

शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।
भद्राहमस्मै प्रायच्छन् इदं राष्ट्रमसादिति ॥१॥
भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।
भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम् ।
भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
यो नो भद्राहमकरः सायं नक्तमथो दिवा ।
तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥