← सूक्तं ६.१२८ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२९
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.१३० →
दे. भगः। अनुष्टुप्।

भगेन मा शांशपेन साकमिन्द्रेण मेदिना ।
कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
येन वृक्षामभ्यभवो भगेन वर्चसा सह ।
तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥
यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः ।
तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥