← सूक्तं ६.१३० अथर्ववेदः - काण्डं ६
सूक्तं ६.१३१
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.१३२ →
दे. स्मरः। अनुष्टुप्।

नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
अनुमतेऽन्विदं मन्यस्वाकूते समिदं नमः ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।
ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥