← सूक्तं ६.१२९ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३०
ऋषिः - अथर्वाङ्गिराः।
सूक्तं ६.१३१ →
दे. स्मरः। अनुष्टुप्, १ विराट् पुरस्ताद्बृहती।

रथजितां राथजितेयीनामप्सरसामयं स्मरः ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
असौ मे स्मरतादिति प्रियो मे स्मरतादिति ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
यथा मम स्मरादसौ नामुष्याहं कदा चन ।
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥
उन् मादयत मरुत उदन्तरिक्ष मादय ।
अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥