← सूक्तं ६.१३५ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३६
ऋषिः - वीतहव्यः
सूक्तं ६.१३७ →
दे. नितत्नी वनस्पतिः।

देवी देव्यामधि जाता पृथिव्यामस्योषधे ।
तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।
इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥