← सूक्तं ६.१३६ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३७
ऋषिः - वीतहव्यः
सूक्तं ६.१३८ →
दे. वनस्पतिः।

यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।
तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
अभीशुना मेया आसन् व्यामेनानुमेयाः ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥