अथर्ववेदः - काण्डं ७
सूक्तं ७.००१
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००२ →
दे. आत्मा। त्रिष्टुप् , २ विराट् जगती।

अथर्वाणं पितरं इत्यष्टर्चेन(अ ७.२-५) सर्वफलकामः अथर्वाणं यजत उपतिष्ठते वा (कौ.सू. ५९.१८)

धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि ।
तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः ।
स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥