← सूक्तं ७.००१ | अथर्ववेदः - काण्डं ७ सूक्तं ७.००२ अथर्वा (ब्रह्मवर्चसकामः) |
सूक्तं ७.००३ → |
दे. आत्मा। त्रिष्टुप्
अथर्वाणं पितरं इत्यष्टर्चेन(अ ७.२-५) सर्वफलकामः अथर्वाणं यजत उपतिष्ठते वा (कौ.सू. ५९.१८) |
अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् ।
य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥