← सूक्तं ७.००२ अथर्ववेदः - काण्डं ७
सूक्तं ७.००३
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००४ →
दे. आत्मा। त्रिष्टुप्

अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥