← सूक्तं ७.००५ | अथर्ववेदः - काण्डं ७ सूक्तं ७.००६ अथर्वा (ब्रह्मवर्चसकामः) |
सूक्तं ७.००७ → |
दे. आत्मा। त्रिष्टुप् , ३ पङ्क्तिः, ४ अनुष्टुप्। |
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥