← सूक्तं ७.००६ अथर्ववेदः - काण्डं ७
सूक्तं ७.००७
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००८ →
दे. अदितिः। विराड् जगती

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥१॥
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात्॥२॥