← सूक्तं ७.०१३ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१४(७.०१३)
अथर्वा (द्विषोवर्चोहर्तुकामः)
सूक्तं ७.०१५ →
दे. सूर्यः। अनुष्टुप्

7.14(7.13)
यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।
एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥
यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।
उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥