← सूक्तं ७.०१२ अथर्ववेदः - काण्डं ७
सूक्तं ७.१३ (७.१२)
शौनकः।
सूक्तं ७.०१४ →
दे. सभा, १-२ सभा, पितरः, ३ इन्द्रः, ४ मन-। अनुष्टुप्, १ भुरिक् त्रिष्टुप्।

सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।
येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥
विद्म ते सभे नाम नरिष्टा नाम वा असि ।
ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥
एषामहं समासीनानां वर्चो विज्ञानमा ददे ।
अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥
यद्वो मनः परागतं यद्बद्धमिह वेह वा ।
तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥