← सूक्तं ७.३४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०३५(७.३४)
अथर्वा
सूक्तं ७.३६ →
दे. जातवेदाः। जगती

अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्यजातान् जातवेदो नुदस्व ।
अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥१॥

सायणभाष्यम्


विद्वेषिणः पुमपत्यराहित्याय 'अग्ने जातान्' इत्यनया अश्वतरीमूत्रं पाषाणेन संघृष्य अभिमन्त्र्य ओदनेन सह विद्वेषिण्यै प्रयच्छेत् ।
तथा तस्मिन्नेव कर्मणि अनया अश्वतरीमूत्रं पाषाणाभ्यां संघृष्य अभिमन्त्र्य तस्या अलंकारान् आलिम्पेत् ।
तथा तस्मिन्नेव कर्मणि अनया विद्वेषिण्याः सीमन्तम् ईक्षेत ।
विद्वेषिण्या वन्ध्याकरणकर्मणि 'प्रान्यान्' इति तृचेन पूर्वमन्त्रोक्तानि कर्माणि कुर्यात् ।
सूत्रितं हि -- " 'अग्ने जातान्' इति न वीरं जनयेत् 'प्रान्यान्' ( अ ७,३६ ) इति न "विजायेतेत्यश्वतरीमूत्रम् अश्ममण्डलाभ्यां संघृष्य भक्तेऽलंकारे । सीमन्तम् अन्वीक्षते” ( कौसू ३६,३३,३४ ) इति ।
अभिचारकर्मणि 'अग्ने जातान्' इति द्वाभ्याम् ऋग्भ्याम् अशनिहतवृक्षसमिध आदध्यात् ।
अग्निचयने पञ्चम्यां चितौ असपत्नेष्टकाम् उपधीयमानाम् 'अग्ने जातान्’ इति द्वाभ्याम् ऋग्भ्याम् ब्रह्मा अनुमन्त्रयेत । " 'अग्ने जातान्' इति द्वाभ्यां पञ्चम्यां चितावसपत्नेष्टका निधीयमानाः " ( वैताश्रौ २९, ६ ) इति हि वैतानं सूत्रम् ।
विवाहे चतुर्थदिवसे 'अक्षौ नौ' इत्यनया वरवध्वौ अन्योन्यम् अक्षिणी अञ्जाताम् । अक्ष्यौ नौ' (अ ७,३७) इति समञ्जते ” ( कौसू ७९, २ ) इति सूत्रम् ।
सौभाग्यसंवननकर्मणि 'इदं खनामि' इति पञ्चर्चेन सौवर्चलमूलं संपात्य अभिमन्त्र्य बध्नीयात् ।
तथा तत्रैव कर्मणि अनेन पञ्चर्चेन शङ्खपुष्पीपुष्पम् अभिमन्त्र्य स्त्रियाः शिरसि बध्नीयात् ।
“ “इदं खनामि' ( अ ७,३९ ) इति सौवर्चलम् ओषधिवत् शुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति” ( कौसू ३६, १२ ) इति सूत्रम् ।

अग्ने॑ जा॒तान्प्र णु॑दा मे स॒पत्ना॒न्प्रत्यजा॑तान्जातवेदो नुदस्व।
अ॑धस्प॒दं कृ॑णुष्व॒ ये पृ॑त॒न्यवो ऽना॑गस॒स्ते व॒यमदि॑तये स्याम ।।१।।
अग्ने॑ । जा॒तान् । प्र । नु॑द॒ । मे॒ । स॒ऽपत्ना॑न् । प्रति॑ । अजा॑तान् । जा॒तऽवे॒दः॒ । नु॒द॒स्व॒ ।
अ॒ध॒ःऽप॒दम् । कृ॒णु॒ष्व॒ । ये । पृत॒न्यव॑ः । अना॑गसः । ते । व॒यम् । अदि॑तये । स्या॒म॒ ॥ १ ॥
हे अग्ने मे मदीयान् जातान् निष्पन्नान् सपत्नान् शत्रून् प्र णुद प्रकर्षेण प्रेरय अतिदूरम् अपसारय । तथा हे जातवेदः जातानां वेदितः जातप्रज्ञ वा अजातान् अनुत्पन्नान् उत्पत्स्यमानान् शत्रुपुत्रान् प्रति नुदस्व विनाशय । किं च ये शत्रवः पृतन्यवः संग्रामेच्छ्वः । पृतनाशब्दाद् इच्छायां क्यचि 'कव्यध्वरपृतनस्यर्चि लोपः' ( पा ७,४,३९ ) इति अन्त्यलोपः । तान् अस्माभिः सह योद्धुम् इच्छून् सपत्नान् अधस्पदम् पादस्याधस्ताद् देशे कृणुष्व कुरु । मदीयपादाधःप्रदेशवर्तिनः कुरु । एवं शत्रुबाधा प्रार्थिता । अथ तद्दोषपरिहारश्चतुर्थपादेन प्रार्थ्यते - ते तादृशाः शत्रुपीडाकाङ्क्षिणो वयम् । पुत्रादिसाहित्यं वक्तुं बहुवचनम् । अदितये अदितिः अखण्डनीया पृथिवी अदीना वा देवमाता तस्यै । षष्ठ्यर्थे चतुर्थी । अदित्याः प्रसादाद् अनागसः स्याम पापरहिता भवेम । अयम् अर्थः - भूमिर्हि पुण्यकृतः स्वस्योपरि चिरकालम् अवस्थापयति पापकृतस्तिरस्करोति । अतः अत्र शत्रुपीडाकाङ्क्षिणोऽपि अस्मान् तत्पापपरिहारेण भूमिश्चिरकालम् अवस्थापयत्विति प्रार्थ्यते । शत्रुहननार्थम् अग्नेः प्रार्थनाद् वा तन्माता अदितिः पापरहितान् अस्मान् करोत्विति आशास्यते । यद्वा अदितये अखण्डितत्वाय अदीनत्वाय अनभिशस्तये वा अनागसः स्यामेति ।