← सूक्तं ७.३५ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०३६(७.३५) अथर्वा |
सूक्तं ७.३७ → |
दे. जातवेदाः। १ जगती, २ अनुष्टुप्, ३ त्रिष्टुप् |
प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।
इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।
तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।
अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
सायणभाष्यम्
प्रान्यान्त्स॒पत्ना॒न्त्सह॑सा॒ सह॑स्व॒ प्रत्यजा॑तान्जातवेदो नुदस्व।
इ॒दं रा॒ष्ट्रं पि॑पृहि॒ सौभ॑गाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।।१।।
प्र । अ॒न्यान् । स॒ऽपत्ना॑न् । सह॑सा । सह॑स्व । प्रति॑ । अजा॑तान् । जा॒त॒ऽवेद॒ः । नुद॒स्व॒ ।
इ॒दम् । रा॒ष्ट्रम् । पि॒पृ॒हि । सौभ॑गाय । विश्वे॑ । ए॒न॒म् । अनु॑ । म॒द॒न्तु॒ । दे॒वाः ॥१॥
हे जातवेदः अन्यान् अस्मत्प्रातिकूल्यकारित्वेन विभिन्नान् सपत्नान् सहसा बलेन शीघ्रं वा प्र सहस्व प्रकर्षेण अभिभव । प्रत्यजातान् इति पादो व्याख्यातः । किं च इदम् अनुभूयमानं स्वनिवासाश्रयं राष्ट्रम् अस्मदीयं जनपदं सौभगाय सौभाग्याय पिपृहि पूरय । यस्मिन् देशे परोपद्रवकारी वर्तते स देशः सस्यादिना अभिवृद्धो न भवतीति प्रसिद्धिः । अतः अत्र राज्यस्य सौभाग्यपूर्तिः प्रार्थ्यते । किं च विश्वे सर्वे देवाः एनं शत्रुहननकर्मणः प्रयोक्तारम् अनु मदन्तु अनुमोदन्ताम् ।
इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त।
तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ।।२।।
इ॒माः । याः । ते॒ । श॒तम् । हि॒राः । स॒हस्र॑म् । ध॒मनीः । उ॒त ।
तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धाम् ॥ २ ॥
विद्वेषिणि स्त्रि ते त्वदीया या इमाः शतम् शतसंख्याका हिराः नाड्यः गर्भधार- णार्थम् अन्तरवस्थिताः सूक्ष्मा या नाड्यः सन्ति उत अपि च सहस्रम् सहस्रसंख्याका धमनीः धमन्यः गर्भाशयस्य अवष्टम्भिका बाह्याः स्थूला या नाड्यः सन्ति ते त्वदीयानां तासां सर्वासां नाडीनां बिलम् मुखम् अश्मना पाषाणेन अहम् वन्ध्याकरणकर्मप्रयोक्ता अप्यधाम् अपिहितवान् आच्छादितवान् अस्मि । यथा गर्भधारणक्षमा न भवन्ति तथा अकार्षम् । छान्दसो वा लुङ् । अपिदधामि ।
परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूतुः॑।
अ॒स्व॑१ं॒ त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धान॑म्कृणोमि ।।३।।
परम् । योनेः । अव॑रम् । ते॒ । कृ॒णो॒मि॒ । मा । त्वा॒ । प्र॒ऽजा । अ॒भि । भू॒त् । मा । उ॒त । सूतुः॑ ।
अ॒स्व॒म् । त्वा॒ । अप्र॑जसम् । कृ॒ण॒ोमि॒ । अश्मा॑नम् । ते॒ । अ॒पि॒ऽधान॑म् । कृ॒णो॒मि॒ ॥ ३ ॥
हे प्रतिकूले नारि ते त्वदीयं योनेः परं पुत्रजननक्षमत्वेन उत्कृष्टं स्थानं गर्भाशयं योनेः परस्तात् प्रदेशे वर्तमानं वा स्थानम् अवरं कृणोमि निकृष्टं गर्भं धारयितुम् अक्षमं करोमि । योनिप्रदेशात् नीचीनं बहिर्भूतं वा करोमि । यत एवम् अतः प्रजा स्त्र्यपत्यरूपा त्वा त्वां मा अभिभूत् सर्वतो मा प्राप्नोतु । भवतेः प्राप्त्यर्थात् लुङि रूपम् । उत अपि च सूनुः पुत्रो मा । अभि भूद् इत्यनुषङ्गः । एतदेवाह - त्वा त्वाम् अप्रजसम् न विद्यते प्रजा स्त्रीपुंसापत्यरूपा यस्यास्ताम् । नञ्पूर्वात् प्रजाशब्दात् 'नित्यमसिच्प्रजामेधयोः' ( पा ५, ४, १२२ ) इति असिच्प्रत्ययः समासान्तः । प्रजारहिताम् अश्वाम् अश्वतरीमेव कृणोमि करोमि । यथा अश्वतरी स्त्रीव्यञ्जनयुक्तापि प्रजारहिता तथा त्वां करोमीत्यर्थः । किं च ते तव संबन्धिनः । गर्भधारणस्थानस्येति शेषः । अश्मानम् पाषाणम् अपिधानम् संवरणम् आच्छादनं कृणोमि करोमि ।