← सूक्तं ७.४५ | अथर्ववेदः - काण्डं ७ सूक्तं ७.४६ - ४७(७.४५) ऋषिः - १-२ प्रस्कण्वः, २ अथर्वा। |
सूक्तं ७.४८ → |
दे. ईर्ष्यापनयनम्, भेषजम्। अनुष्टुप्। |
जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् ।
दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥
अग्नेरिवास्य दहतो दावस्य दहतः पृथक्।
एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥