← सूक्तं ७.४७ अथर्ववेदः - काण्डं ७
सूक्तं ७.४८(७.४६)
ऋषिः -अथर्वा।
सूक्तं ७.४९ →
दे. सिनीवाली। अनुष्टुप्, ३ त्रिष्टुप्

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।
विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥