← सूक्तं ७.०४८ अथर्ववेदः - काण्डं ७
सूक्तं ७.०४९(७.०४७)
ऋषिः - अथर्वा।
सूक्तं ७.०५० →
दे. कुहूः। १ जगती, २ त्रिष्टुप्।

कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।
सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।
शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥