← सूक्तं ७.०५० अथर्ववेदः - काण्डं ७
सूक्तं ७.०५१(७.०४९)
ऋषिः - अथर्वा।
सूक्तं ७.०५२ →
दे. देवपत्नीः। १ आर्षी जगती, २ चतुष्पदा पङ्क्तिः।

देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥१॥
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।
आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥