← सूक्तं ७.०४९ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०५०(७.०४८) ऋषिः - अथर्वा। |
सूक्तं ७.०५१ → |
दे. राका। जगती। |
राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥