← सूक्तं ७.०५२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५३(७.०५१)
ऋषिः - अङ्गिराः।
सूक्तं ७.०५४ →
दे. इन्द्राबृहस्पती। त्रिष्टुप्।

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥