← सूक्तं ७.०५३ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५४(७.०५२)
ऋषिः - अथर्वा
सूक्तं ७.०५५ →
दे. सांमनस्यं, अश्विनौ । १ ककुम्मत्यनुष्टुप्, २ जगती

संज्ञानं नः स्वेभिः संज्ञानमरणेभिः ।
संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥१॥
सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।
मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥