← सूक्तं ७.०५७ अथर्ववेदः - काण्डं ७
सूक्तं ७.०५८
ऋषिः - अथर्वा
सूक्तं ७.०५९ →
दे. वृश्चिकादयः, २ वनस्पतिः, ३ ब्रह्मणस्पतिः। अनुष्टुप्, ४ विराट्प्रस्तारपङ्क्तिः

तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।
तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।
सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।
अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।
तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।
अथ किं पापयाऽमुया पुच्छे बिभर्ष्यर्भकम् ॥६॥
अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
य उभाभ्यां प्रहरसि पुच्छेन चास्येन च ।
आस्ये न ते विषं किमु ते पुच्छधावसत्॥८॥