← सूक्तं ७.०५८ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०५९(७.५७) ऋषिः - वामदेवः। |
सूक्तं ७.०६० → |
दे. सरस्वती। जगती। |
यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।
यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।
उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥