← सूक्तं ७.०६४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०६५(७.०६३)
ऋषिः - मरीचिः काश्यपः
सूक्तं ७.०६६ →
दे. जातवेदः। जगती

पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥