← सूक्तं ७.०६५ अथर्ववेदः - काण्डं ७
सूक्तं ७.०६६(७.०६४)
ऋषिः - यमः
सूक्तं ७.०६७ →
दे. आपः, अग्निः, निर्ऋतिः। १. भुरिगनुष्टुप्, २. न्यङ्कुसारिणी बृहती।

इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्।
आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥
इदं यत्कृष्णः शकुनिरवामृक्षन् निर्ऋते ते मुखेन ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥