← सूक्तं ७.०६६ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०६७(७.०६५) ऋषिः - शुक्रः। |
सूक्तं ७.०६८ → |
दे. अपामार्गवीरुत्। अनुष्टुप्। |
प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।
सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।
त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
श्यावदता कुनखिना बण्डेन यत्सहासिम ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥