← सूक्तं ७.०८० अथर्ववेदः - काण्डं ७
सूक्तं ७.०८१(७.७६)
अथर्वा
सूक्तं ७.०८२ →
दे. जायान्यः, इन्द्रः। १ भुरिगनुष्टुप्, २ त्रिष्टुप्

विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।
कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥
धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥