← सूक्तं ७.०८९ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०९०(७.८५) अथर्वा(स्वस्त्ययनकामः)। |
सूक्तं ७.०९१ → |
दे. तार्क्ष्यः। त्रिष्टुप्। |
त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
सायणभाष्यम्
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्।
अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ।।१।।
त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सहःऽवानम् । तरुतारम् । रथानाम् ।।
अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्व॒स्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥ १॥
त्यमु तं प्रसिद्धमेव तार्क्ष्यम् तृक्षपुत्रं सुपर्णम् । तृक्षशब्दो गर्गादिषु पठ्यते (?)। इह अस्मिन् कर्मणि स्वस्तये क्षेमाय सु सुष्ठु आ हुवेम आह्वयेम । 'बहुलं छन्दसि' (पा ६,१,३४) इति ह्वयतेः संप्रसारणम् । 'लिङयाशिष्यङ्' (पा ३,१,८६ )। यद्वा प्रार्थनायां लिङि व्यत्ययेन शः । कीदृशम् । वाजिनम् अन्नवन्तं बलवन्तं वा देवजूतम् देवैः सोमाहरणाय प्रेरितम् । जु इति गत्यर्थः सौत्रो धातुः । अस्मात् कर्मणि निष्ठा । 'तृतीया कर्मणि' (पा ६,२,४८) इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा देवैः प्रीयमाणं तर्प्यमाणम् । यद् आह यास्कः - 'जूतिर्गतिः प्रीतिर्वा देवजूतं देवगतं देवप्रीतं वा' (नि १०,२८ ) इति । सहोवानम् सहस्वन्तं बलवन्तम् अभिभवनशक्तिमन्तं वा । 'छन्दसीवनिपौ' ( पावा ५,२,१०९) इति वनिप् । अत एव रथानाम् अन्यदीयानां तरुतारम् संग्रामे तरीतारम् । यद्वा रंहणशीला इमे लोका रथाः । तेषां सोमाहरणसमये शीघ्रं तरीतारम् । श्रूयते हि - ‘एष हीमाँल्लोकान्त्सद्यस्तरति' (ऐब्रा ४,२०) इति । तरतेस्तृचि 'ग्रसितस्कभित' (पा ७,२,३४) इत्यादिसूत्रे उडागमो निपात्यते । अरिष्टनेमिम् । नेमिशब्देन तद्वान् रथो लक्ष्यते । अहिंसितरथम् । यद्वा नेमिः नमनशीलम् आयुधम् अतिरस्कृतायुधम् । अथ वा उपचाराज्जनके जन्यशब्दः । अरिष्टनेमेर्मम ऋषेर्जनकम् । पृतनाजम् पृतनानां शत्रुसेनानां प्राजितारं प्रगमयितारं जेतारं वा। अज गतिक्षेपणयोः । अस्मात् क्विप् । 'वलादावार्धधातुके विकल्प इष्यते' (पाका २,४,५६) इति वचनाद् वीभावाभावः । जयतेर्वा डप्रत्ययः । आशुं शीघ्रगामिनम् ।
टिप्पणी
तार्क्ष्योपरि शोधलेखः पृष्ठ १३८
त्यमूषु -- त्यं ऊँ सु। डा. फतहसिंहानुसारेण वेदे ओंकारस्य दौ रूपौ स्तः - ओ सु एवं मो सु। ओ सु सृजनात्मकः अस्ति, मो सु संहारकः।सहावानं तरुतारं रथानाम् -- भविष्यपुराणे ३.३.१.२७ उल्लेखः अस्ति यत् कलियुगे सहदेवस्य जन्म देवसिंहरूपे भवति। अयं संकेतमस्ति यत् यदा सहसंज्ञकस्य बलस्य विकृतिः भवति, तदा तत् सिंहरूपे प्रकटयति।
अस्मात् सूक्तात् पूर्वतनं सूक्तं अपि द्रष्टव्यमस्ति। भागवतपुराणानुसारेण ६.६.२२ तार्क्ष्यस्य/कश्यपस्य चत्वार्यः भार्याः सन्ति - विनता, कद्रू, पतङ्गी एवं शलभा। पतङ्गीभार्यातः पतगानां सृष्टिः भवति।