← सूक्तं ७.०९० अथर्ववेदः - काण्डं ७
सूक्तं ७.०९१(७.८६)
अथर्वा(स्वस्त्ययनकामः)।
सूक्तं ७.०९२ →
दे. इन्द्रः। त्रिष्टुप्।

त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥

सायणभाष्यम्

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्।
हु॒वे नु॑ श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न्कृणोतु ।।१।।
त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवेऽहवे । सुऽहवम् । शूरम् । इन्द्रम् ।
हुवे । नु । शक्रम् । पुरुऽहूतम् । इन्द्रम् । स्वस्ति । नः । इन्द्रः । मघऽवान् । कृणोतु ॥
त्रातारम् रक्षकम् इन्द्रं हुवे ह्वयामि । अवितारम् इन्द्रम् इति पुनरुक्तिः पातृतमत्वख्यापनार्था । यद्वा त्राणं नाम उपस्थितेभ्यो भयहेतुभ्यो रक्षणम् । अवनं तु उदेष्यतां निरोध इति विशेषः । अथ वा पारमैश्वर्यलक्षणम् अवनम् । हवे हवे सर्वेषु ह्वानेषु सुहवम् ह्वातुं सुशकं शूरम् समर्थम् इन्द्रं ह्वयामि । तथा शक्रम् शक्तं सर्वत्र पुरुहूतम् इन्द्रं नु क्षिप्रं हुवे ह्वयामि । स च मघवान् धनवान् इन्द्रः स्वस्ति क्षेमम् अविनाशं नः अस्माकं कृणोतु करोतु । कृवि हिंसाकरणयोश्च । 'धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः।


टिप्पणी