← सूक्तं ७.०९२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९३(७.८८)
गरुत्मान्।
सूक्तं ७.०९४ →
दे. तक्षकः। त्र्यवसाना बृहती।

अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः ।
अहिमेवाभ्यपेहि तं जहि ॥१॥

सायणभाष्यम्

अपे॒ह्यरि॑र॒स्यरि॒र्वा अ॑सि वि॒षे वि॒षम॑पृक्था वि॒षमिद्वा अ॑पृक्थाः।
अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ।।१।।
अप । इहि । अरि: । असि । अरि: । वै । असि । विषे । विषम् । अपृक्थाः । विषम् । इत् । वै । अपृक्थाः ।
अहिम् । एव । अभिऽअपेहि । तम् । जहि ॥ १ ॥
अत्र सर्पविषं संबोध्यते । हे विष अपेहि अपगच्छ अस्माद् दष्टात् पुरुषात् । यतस्त्वम् अरिः शत्रुः असि भवसि । न केवलम् अस्यैव अरिरसि वै सर्वस्य शत्रुर्भवसि खलु । अतो विषे विषवति सर्पे । अर्शआदित्वाद् अच्प्रत्ययः । विषम् अपृक्थाः संपर्चय संयोजय । एतदेव पुनराह - विषमित् विषमेव अपृक्थाः संयोजय । वैशब्दः अवधारणे । विषवति सर्प एव पुनर्विषमेव संयोजयेत्यर्थः । पृची संपर्के । छान्दसे लुङि 'एकाचः” (पा ७,२,१० ) इति इण्निषेधः । 'झलो झलि' (पा ८,२,२६ ) इति सिचो लोपः । उक्तार्थमेव विशदयति - हे विष त्वं यस्य विषं भवसि तम् अहिम् आहन्तारं सर्पम् एव अभ्युपेहि अभिलक्ष्य समीपं गच्छ । गत्वा च तम् अहिं जहि विनाशय ।