← सूक्तं ७.०९१ अथर्ववेदः - काण्डं ७
सूक्तं ७.०९२(७.८७)
अथर्वा।
सूक्तं ७.०९३ →
दे. रुद्रः। जगती।

यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
य इमा विश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥

सायणभाष्यम्

यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्व॒न्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑।
य इ॒माविश्वा॒ भुव॑नानि चा॒क्ळृपे तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये॑ ।।१।।
यः । अ॒ग्नौ । रुद्रः । यः । अप्ऽसु । अन्तः । यः । ओषधीः । वीरुधः । आऽविवेश ।
यः । इमा । विश्वा । भुवनानि । चक्लृपे । तस्मै । रुद्राय । नमः । अस्तु । अग्नये ॥ १ ॥
यो रुद्रः । रोदयति शत्रून् इति रुद्रः । 'रोदेर्णिलुक् च' (पाउ २,२२) इति रक्प्रत्ययः । णेर्लुक् । एतन्नामा देवः अग्नौ अन्तः मध्यम् आविवेश यष्टव्यत्वेन अग्निमध्यं प्रविष्टः। यश्च अप्सु अन्तः आविवेश वरुणात्मना प्रविष्टः । 'ऊडिदम्' (पा ६,१,१७१) इत्यादिना अप्शब्दाद् उत्तरस्या विभक्तेरुदात्तत्वम् । यश्च वीरुधः विशेषेण विविधं वा रोहन्तीः ओषधीः ओषः फलपाको धीयते निधीयते आस्विति ताः फलपाकान्ता लताः आविवेश सोमात्मना आविष्टः । वीरुध इति । विपूर्वाद् रोहतेः क्विपि 'नहिवृति' (पा ६,३,११६ ) इत्यादिना उपसर्गस्य दीर्घः । हकारस्य धकारादेशश्छान्दसः । किं बहुना यो रुद्रः इमा इमानि नामरूपात्मना परिदृश्यमानानि विश्वा विश्वानि सर्वाणि भुवनानि भवन्ति भूतानि । स्रष्टुम् इति शेषः । चाक्लृपे समर्थो भवति । कृपू सामर्थ्ये । लिटि 'कृपो रो लः' (पा ८,२,१८) इति लत्वम् । अभ्यासस्य छान्दसः सांहितिको दीर्घः । तस्मै सर्वजगत्स्रष्ट्रे सर्वं जगद् अनुप्रविष्टाय रुद्राय रुद्रात्मने अग्नये नमः नमस्कारोऽस्तु । यद्वा अग्नये अङ्गनादिगुणविशिष्टाय रुद्राय नमोऽस्तु।।



टिप्पणी